छन्दःशास्त्रभूमिका
छन्द:शास्त्रभूमिका अक्षरसङ्ख्याऽवच्छेद: छन्द: । पृथिवी गायत्री, अन्तरिक्षं त्रैष्टुभम्, द्यौर्जगती । अग्निर्गायत्र:, इन्द्रस्त्रैष्टुभः, विश्वेदेवा जागताः । तेजो वै ब्रह्मवर्चसं गायत्रम्, ओजो वा इन्द्रियं वीर्यं त्रिष्टुप् , पशवो जागताः । ब्रह्म गायत्रम्, क्षत्रं त्रैष्टुभम्, विड् जागतम् । ब्राह्मणो गायत्रः, क्षत्रियस्त्रैष्टुभः, वैश्यो जागतः । चतुर्विंशत्यक्षरा वाग्गायत्री, चतुश्चत्वारिंशदक्षरा वाक् त्रैष्टुभी, अष्टचत्वारिंशदक्षरा वाग् जागती ॥ अतः अक्षरपरिमाणं छन्दः । गायतो मुखादुदपतत्— इति गायत्री । गायत्रीमेव त्रिपदां सतीं चतुर्थेन पादेननानुष्टोभति । गायन्तं त्रायते यस्माद्गायत्रीत्युच्यते बुधैः । “स च्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते” । “ते छन्दोभिरात्मानमाच्छादयन्, यदेभिराच्छादयन्, तच्छन्दसां छन्दस्त्वम्” । “ छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणः । नियताक्षरवर्णमात्रादिसन्निवेशः छन्दः । छन्दस्— अस्य शब्दस्य नानार्था:— १) ‘अन्नाच्छादनभागयम्’, ‘आच्छाद्य चार्हयित्वा च श्रुतशीलवते स्वयम्’- इत्यादिषु उपसंव्यानम् / परिधानम् / परिधानवस्त्रम्...