छन्दःशास्त्रभूमिका

छन्द:शास्त्रभूमिका
अक्षरसङ्ख्याऽवच्छेद: छन्द: । 
पृथिवी गायत्री, अन्तरिक्षं त्रैष्टुभम्, द्यौर्जगती । 
अग्निर्गायत्र:, इन्द्रस्त्रैष्टुभः, विश्वेदेवा जागताः ।
तेजो वै ब्रह्मवर्चसं गायत्रम्, ओजो वा इन्द्रियं वीर्यं त्रिष्टुप् , पशवो जागताः ।
ब्रह्म गायत्रम्, क्षत्रं त्रैष्टुभम्, विड् जागतम् ।
ब्राह्मणो गायत्रः, क्षत्रियस्त्रैष्टुभः, वैश्यो जागतः ।
चतुर्विंशत्यक्षरा वाग्गायत्री, चतुश्चत्वारिंशदक्षरा वाक् त्रैष्टुभी, अष्टचत्वारिंशदक्षरा वाग् जागती ॥ अतः अक्षरपरिमाणं छन्दः ।

गायतो मुखादुदपतत्— इति गायत्री । गायत्रीमेव त्रिपदां सतीं चतुर्थेन पादेननानुष्टोभति । गायन्तं त्रायते यस्माद्गायत्रीत्युच्यते बुधैः । “स च्छन्दोभिश्छन्नस्तस्माच्छन्दांसीत्याचक्षते” । “ते छन्दोभिरात्मानमाच्छादयन्, यदेभिराच्छादयन्, तच्छन्दसां छन्दस्त्वम्” । “ छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणः ।
नियताक्षरवर्णमात्रादिसन्निवेशः छन्दः ।
छन्दस्— अस्य शब्दस्य नानार्था:—
१) ‘अन्नाच्छादनभागयम्’, ‘आच्छाद्य चार्हयित्वा च श्रुतशीलवते स्वयम्’- इत्यादिषु उपसंव्यानम् / परिधानम् / परिधानवस्त्रम् / आच्छादनम् /
२) ‘आभूषणाच्छादिताङ्गी’, ‘छदयति सुरलोकं यो गुणैर्यं च युद्धे सुरयुवतिविमुक्ताश्छादयन्ति स्रजश्च ।’ इत्यादिषु पर्याधानम् ।
३) ‘चन्दनच्छन्नगात्रः’, ‘तैलाच्छन्नं कलेवरम्’, ‘घृताच्छन्नं व्यञ्जनम्’ इत्यादिषु चर्चितकत् / आलेपनम् / सेचनम् ।
४) ‘मेघच्छन्नेह्नि दुर्दिनम्’, ‘कण्टकच्छन्नमार्गेषु’, इत्यादिषु अववरोधः ।
५) ‘ईशावास्यमिदं सर्वम्’, ‘आच्छाद्यते त्वद्यशसा समस्तम्’ इत्यादिषु व्याप्ति: ।
६) ‘छादयन्नाननम् वेगैरर्दयन्नङ्गभञ्जनैः । निरुच्यते छर्दिरिति दोषो वक्रं प्रधावितः ॥’ (सुश्रुतः) इत्येवमादिषु दूषितकरणम् ।
७) ‘निचितं तु हंसपक्षैः कृकवाकुमयूरसारसानां च । दौकुलेन नवेन तु समन्ततश्छादितं शुक्लम् ॥ दण्डार्धविस्तृतं तत्समावृतं रत्नभूषितमुदग्रम् ॥ नृपतेस्तदातपत्रं कल्याणकरं विजयदं च ॥ अन्येषामुष्णघ्नं प्रसादपट्टैर्विभूषितशिरस्कम् । व्यालम्बिरत्नमालं छत्रं कार्यं च मयूरम् ॥’ (बृहत्संहिता) इत्येवमादिषु स्वरूपकरणम् ।
८) ‘अग्निमन्तश्छादयसि’ (अथर्ववेद:), ‘अन्नं छादयेदाज्येन’ (कात्यायनश्रौतसूत्रम्) इत्येवमादिषु ऊर्जनम् ।
९) ‘छन्ने स्थाने समासीन:’ इत्यादिषु विविक्तम् / निर्जनम् ।
१०) ‘गर्गश्च गोकुले तत्र वसुदेवप्रणोदितः । प्रच्छन्न एव गोपानां संस्कारानकरोत्तयोः ॥’ (विष्णुपुराणम्) इत्यादौ अज्ञानत्वम् / प्रच्छन्नत्वम् ।
११) ‘गायत्रेण छन्दसा त्वा छादयामि, त्रैष्टुभेन छन्दसा त्वा छादयामि, छादयन्ति ह वा एनं छन्दांसि पापात्कर्मणः’ इत्यादिषु गोपनं / रक्षणम् च ।
१२) शब्दचन्द्रिकादौ विषपरत्वम् ।
१३) अन्यत्र तु रहःपरत्वम् ।
१४) रुचिपरत्वम् ।
१५) अभिलाषपरत्वम् ।
१६) वशतापरत्वम् ।
१७) स्वैराचारपरत्वम् ।
१८) निष्प्रतिबन्धपरत्वम् ।
१९) विरेचनपरत्वम् ।
२०) चन्दयति आह्लादयति चन्द्यते अनेन वा ।
२१) वेदः ।
२२) पद्यम् ।
२३) कपटम् ।
२४) छन्दयति असून् ।
इत्येवमनेके विषयाश्छादनस्य भवन्ति ।
‘गायत्र्या छन्दसा ब्राह्मणमसृजत्, त्रिष्टुभा राजन्यम्, जगत्या वैश्यम्, न केनचिच्छन्दसा शूद्रम् ॥’ इत्यसंस्कार्यो भवति । त्रिष्वेव निवासः स्यात्सर्वेषाम्—इति वसिष्ठस्मृतिः । ‘न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति’ इति मनुस्मरणे छन्दःप्रातिनिध्येन संस्कारशब्दप्रयोगाच्च ।
तथा च—
‘शूद्रोऽप्येवंविधः कार्यो विना मन्त्रेण संस्कृतः ।
न केनचित्समसृजच्छन्दसा तं प्रजापतिः ॥’
इति मनुयमादिस्मरणे छन्दःशब्दस्य मन्त्रपरतया व्याख्यानात् ।
‘अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः ।
अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥’
इति मरीचिवचनम् ।
    वाक्छन्द इति जिज्ञासायां गतियत्यध्वपरिच्छित्त्यतिरेकेण छन्दःस्वरूपं निरूप्यते । वृत्तिर्लयो ध्वनिरिति गतेस्त्रयो भेदाः । अवसायो विच्छेदो विरतिर्यतिरणुयतिरिति यतेः पञ्चभेदाः । लिप्यध्वपरिच्छित्तिर्गत्यध्वपरिच्छित्तिरित्यध्वयोगस्य द्वौ भेदौ । वर्णच्छन्दो गणच्छन्दो मात्राच्छन्दश्चेति छन्दसस्त्रयो भेदाः ।

छन्दोविभागः—

अ) अथेदं छन्दः पञ्चधा—
     १) अनादिष्टच्छन्दः- उक्तम्, अत्युक्तम्, मध्यम्, प्रतिष्ठा, सुप्रतिष्ठा चेति पञ्च ।
     २) बृहच्छन्दः- गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पङ्क्तिः, त्रिष्टुप्, जगती चेति सप्त ।
     ३) अतिच्छन्दः- अतिजगती, शक्वरी, अतिशक्वरी, अष्टिः, अत्यष्टिः, धृतिः, अतिधृतिरिति सप्त ।
     ४) कृतिच्छन्दः - कृतिः, प्रकृतिः, आकृतिः, विकृतिः, संस्कृतिः, अभिकृतिः, उत्कृतिश्चेति सप्त ।
     ५) प्रचितिच्छन्दः - अथात ऊर्ध्वं प्रचितिच्छन्दस्तन्न सङ्ख्यायते ।
आ) याज्ञिकानां मते—
उक्तादिपञ्चकं कैश्चिद्गायत्रीत्येव कथ्यते ।
यथा ह्यतिजगत्यादि त्वतिच्छन्दः प्रवर्ण्यते ॥
 तथा चातिजगत्यादीनां जगत्याम्, उक्तादीनां तु गायत्र्यामन्तर्भावसम्भवात् सप्तैव छन्दांसीति याज्ञिकानामभिमानः ॥ तदिदं छन्दः पुनर्द्वेधा— मात्राछन्दो वृत्तच्छन्दश्च । तत्र मात्राछन्दांस्युक्तानि गायत्र्यादीनि सप्तैव । तानि जातिभेदेन पृथग्व्यपदिश्यन्ते । अथ मात्राछन्दसां गायत्र्यादीनामेकैकेऽवान्तरविशेषा वृत्तच्छन्दांसि । तानि वृत्तिभेदेन पृथग्व्यपदिश्यन्ते । यथा मनुष्यविभाजिकाश्चतस्रो ब्राह्मणादिजातयः, ब्राह्मणादिविभाजिकास्तु तत्तत्ब्राह्मणादिगता अवान्तरविशेषरूपा वृत्तय इत्येवमाद्यूह्यमिति याज्ञिकानां प्राचामनुसारेण व्याख्यातम् । 
इ) नव्यच्छान्दसिकानां मते—
        १) पद्यजातं द्वेधा— वृत्तं जातिश्च । यत्र नियतवर्णव्यवस्थया छन्दःसिद्धिस्तद्वृत्तम् । यत्र तु नियतमात्राव्यवस्थया छन्दःसिद्धिः सा जातिः । तथा चाह नारायणः—
‘पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।
वृत्तमक्षरसङ्ख्यातं जातिर्मात्राकृता भवेत् ॥’
हलायुधोऽप्याह—
‘पद्यं चतुष्पदं तच्च वृत्तं जातिरिति द्विधा ।
एकदेशस्थिता जातिर्वृत्तं गुरुलघुस्थितम् ॥’
२) छन्दोवृत्तशब्दयोः पर्यायवाचित्वमिति केचन ।
३) छन्दःपरिमलकारस्तु तयोः पर्यायार्थत्वं तिरस्कृत्य—  
‘मात्राक्षरसङ्ख्यया नियता वाक् छन्दः, गलसमवेतस्वरूपेण नियता वाग् वृत्तम् ।’ इत्येवं व्यवस्थापयति । तथा च तन्मते—
‘उक्तात्युक्ता तथा मध्या प्रतिष्टा सुप्रतिष्ठिका ।
गायत्र्युष्णिगनुष्टुप् च बृहतीपङ्क्तित्रिष्टुभः ॥
जगती चातिजगती शक्वरी चातिशक्वरी ।
अष्ट्यत्यष्टी धृतिः सातिः कृतिः प्रकृतिराकृतिः ॥
विकृतिः सङ्कृतिश्चातिकृतिरुत्कृतिदण्डकाः ।
एतानि वर्णच्छन्दांसि तद्भेदानां तु वृत्तता ॥
एवमेव णढादीनां मात्राच्छन्दस्त्वमिष्यते ।
तदवान्तरभेदानां जातित्वमिति सिद्ध्यति ॥’
 ४) अपरे तु— पद्यच्छन्दस्तावत्त्रेधा— वैदिकम्, लौकिकम्, 
उभयसाधारणं च । तत्र लौकिकं पुनस्त्रेधा— गणच्छन्दः, मात्राच्छन्दः, अक्षरछन्दश्चेति । तथा चोक्तम्—
‘आदौ तावद्गणच्छन्दो मात्राच्छस्ततः परम् ।
तृतीयमक्षरच्छन्दश्छन्दस्त्रेधा तु लौकिकम् ॥
आर्याद्युद्गीतिपर्यन्तं गणच्छन्दः समीरितम् ।
मात्राच्छन्दश्चूलिकान्तमौपच्छन्दसिकादिकम् ॥
सामान्याद्युत्कृतिं यावदक्षरच्छन्द एव च ॥’
५) परे तु— पद्यच्छन्दश्चतुर्धा— अक्षरछन्दः, मात्राच्छन्दः, 
अक्षरगणच्छन्दः, मात्रागणच्छन्दश्चेति भेदात् । यत्र मात्राणां न्यूनातिरेकेऽप्यक्षरसङ्ख्यानं तन्त्रं तदक्षरच्छन्दः । यथा वेदे बहुलं प्रयुक्तं गायत्रीत्रिष्टुब्जगत्यादि । यत्राक्षराणां न्यूनातिरेकेऽपि मात्रासङ्ख्यानं तन्त्रं तन्मात्राच्छन्दः— यथौपच्छन्दसिकवैतालीयादिकम् । यत्र पुनरक्षरगणानां क्रमसंनिविष्टानां व्यवस्थया स्वरूपसिद्धिस्तत्राक्षराणां गुरुलघुस्थनानांच नियतत्वादक्षरगणच्छन्दस्त्वेन व्यवहारः । यथेन्द्रवज्रास्रग्धरावसन्ततिलकामन्दाक्रान्तादि । अथ यत्र मात्रागणानां क्रमसंनिविष्टानां व्यवस्थया छन्दःसिद्धिस्तत्राक्षरनियमाभावान्मात्रागणच्छन्दस्त्वेन व्यवहारः । यथा आर्यादोहाकुण्डलिकादि— इत्येवं पश्यन्ति । 

छन्दोलक्षणम्—

“नाक्षराच्छन्दो व्येत्येकस्मान्न द्वाभ्याम्” इति शतपथब्राह्मणम् ।
“न ह्येकेनाक्षरेणान्यच्छन्दो भवति नो द्वाभ्याम्” (कौषीतकिब्राह्मणम्) ।
“न्यूनाधिकेनैकेन निचृद्भुरिजौ ।”
“द्वाभ्यां विराट्स्वराजौ ।”
“पादपूरणार्थं तु क्षैप्रसंयोगैकाक्षरीभावान् व्यूहेत् ।”(सर्वानुक्रमणिका-परिभाषा)

छन्दोविज्ञान-सार्थकता— 

‘मन्त्राणां दैवतं छन्दो निरुक्तं ब्राह्मणान् ऋषीन् ।
कृत्तद्धितादींश्चाज्ञात्वा यजन्तो यागकण्टकाः ॥१॥
अविदित्वा ऋषिच्छन्दोदैवतं योगमेव च ।
योऽध्यापयेज्जपेद्वाऽपि पापीयान् जायते तु सः ॥२॥
ऋषिच्छन्दोदैवतानि ब्राह्मणार्थं स्वराद्यपि ।
अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते ॥३॥’
अन्यच्चायमाह— (सर्वानुक्रमणिकाभाष्यस्य उपसंहारे)
‘ऋषीनामार्षगोत्रज्ञ ऋषेः संस्थानतामियात् ।
एकैकस्य ऋषेर्ज्ञानात् सहस्राब्दा स्थितिर्भवेत् ॥१॥
छन्दसां चैव सालोक्यं छन्दोज्ञानादवाप्नुयात् ॥२॥
तस्यास्तस्या देवतायास्तद्भावं प्रतिपद्यते ।
यां यां विजानाति नरो देवतामिति निर्णयः ॥३॥
ऋष्यादिविज्ञानफलमनुभूय सुपूजितः ।
स्वाध्यायस्य फलं पश्चाच्छ्रुत्या दत्तं प्रपद्यते ॥४॥’ इति ।
  “अनुष्टुभा यजति, बृहत्या गायति, गायत्र्या स्तौति ।” 
“ ….ततो वा अष्टाक्षरा गायत्र्यभवत् । एकादशाक्षरा त्रिष्टुप् । द्वादशाक्षरा जगती । 

वृत्तनाम्नामुपपत्तिः—

     षडक्षरपादायाः मध्याक्षरद्वयस्य लघुत्वात् “तनुमध्या” । पठ्यमाना द्रुतं वक्रं सर्पतः सर्पशिरोरनुकरोतीति “भुजगशिशुसृता” । द्रुतं विलम्बितं च पठ्यत इति “द्रुतविलम्बितम्” । मत्तमयूरस्य नृत्तमिव भातीति “मत्तमयूरम्” । यतित्रये विश्रम्य मन्दं क्रामन्ती “मन्दाक्रान्ता” । व्याघ्रस्य प्लुतिर्द्वादशहस्तेति प्रसिद्धेर्द्वादशाक्षरेषु यतिम“च्छार्दूलविक्रीडितम्”— इत्येवमादि द्रष्टव्यम् ।

छन्दोलक्षणानि शब्दकल्पद्रुमे, वाचस्पत्ये च आन्ड्राय्ड् आप् मध्येप्येतयोः, सुष्ठु प्रदत्तानि सन्ति छन्द इति शब्दस्यार्थे ।

॥ हरे राम ॥







Comments

Popular posts from this blog

संस्कृतशब्दव्युत्पत्ति-पर्यायपद-कोशः (संस्कृत-संस्कृत-ENGLISH)

सरलपाणिनीयम्