सरलपाणिनीयम्
सरलपाणिनीयम्
(महर्षिपाणिनिविरचितायाः, आष्टाध्याय्याः सरला व्याख्या)
डा ॥ कृष्णमूर्तिशास्त्री, दम्बे-पुणच
॥ ॐ श्रीगुरुगणपतिभ्यां नमः ॥
१।१।१। वृद्धिरादैच् ॥
(वृद्धिः, आदैच्)
आत् = आ, ऐच् = ऐ, औ (ऐऔच्—माहेश्वरसूत्रम्)।
आ, ऐ, औ—एतेषां वृद्धिसंज्ञा ।
वृद्धिः + आत्— वृद्धिरात् (विसर्गरेफसन्धिः) ।
वृद्धिरात् + ऐच्—वृद्धिरादैच् (जश्त्वसन्धिः) ।
आत् च ऐच् च—आदैच् इति समाहारद्वन्द्वसमासः ।
उदा— जमदग्नेः गोत्रापत्यं पुमान् जामदग्न्यः, अश्वलस्य गोत्रापत्यं पुमान् आश्वलायनः (आ) । इतिकस्य गोत्रापत्यं पुमान् ऐतिकायनः, इतिहाससम्बद्धम् ऐतिहासिकम् (ऐ) । उपगोः अपत्यं पुमान् औपगवः, उपमन्योः अपत्यं पुमान् औपमन्यवः (औ) ।
वृद्धिसन्धिः— देवेन + एकेन— देवेनैकेन (ऐ) । जल + ओघः— जलौघः (औ) ॥
१।१।२। अदेङ् गुणः ॥
(अदेङ्, गुणः)
अत् = अ, एङ् = ए, ओ (एओङ्—माहेश्वरसूत्रम्) ।
अ, ए, ओ— एतेषां गुणसंज्ञा ।
अत् + एङ्—अदेङ् (जश्त्वसन्धिः) ।
अत् च एङ् च—अदेङ् इति समाहारद्वन्द्वसमासः ।
उदा— पितृ—पिता, नेतृ—नेता, स्तोतृ—स्तोता, कर्तृ—कर्ता, हर्तृ—हर्ता, भवितृ—भविता, महा + ऋषिः—महर्षिः (अ) । देव + इन्द्रः—देवेन्द्रः, महा + ईशः—महेशः (ए) । सूर्य + उदयः—सूर्योदयः (ओ) । अत्र, महर्षिः, देवेन्द्रः, महेशः, सूर्योदयः— एतेषु गुणसन्धिः ॥
१।१।३। इको गुणवृद्धी ॥
(इकः, गुणवृद्धी)
गुणवृद्धी = यत्र गुणः, वृद्धिः, वा स्वसंज्ञया विधीयते तत्र, इकः = षष्ठ्यन्तं पदम् उप-तिष्ठते, इति परिभाषा ।
इकः + गुणवृद्धी— इको गुणवृद्धी (विसर्गसन्धिः) ।
गुणश्च वृद्धिश्च— गुणवृद्धी (इतरेतरद्वन्द्वसमासः) ।
उदा— "मिदेर्गुणः" (मिदेः गुणः— इत्यत्र गुणसंज्ञायाः कारणात्, मिद्-स्नेहने-धातोः मिदेः- इति षष्ठीप्रयोगः)— मेद्यति (मिद्—मेद्यति, इकारस्य एकारः गुणः) । "मृजेर्वृद्धिः" (मृजेः वृद्धिः— वृद्धिसंज्ञाहेतुत्वात्, मृज्-शुद्धौ-धातोः मृजेः- इति षष्ठीप्रयोगः)— मार्ष्टि (मृज्—मार्ष्टि, ऋकारस्य अर्-कारः वृद्धिः) ॥
Comments
Post a Comment